विषय सूची पर जायें

06. प्रमेहनिदानम् - निदान - सु.

सुश्रुतासंहिता: ।

अथ निदानस्थानं

षष्ठोऽध्यायः ।

अथातः प्रमेहनिदानं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

दिवास्वप्नाव्यायामालस्यप्रसक्तं शीतस्निग्धमधुरमेद्यद्रवान्नपानसेविनं पुरुषं जानियात् प्रमेही भविष्यतीति ||३||

तस्य चैवम्प्रवृत्तस्यापरिपक्वा एव वातपित्तश्लेष्माणो यदा मेदसा सहैकत्वमुपेत्य मूत्रवाहिस्रोतांस्यनुसृत्याधो गत्वा बस्तेर्मुखमाश्रित्य निर्भिद्यन्ते तदा प्रमेहाञ्जनयन्ति ||४||

तेषां तु पूर्वरूपाणि- हस्तपादतलदाहः स्निग्धपिच्छिलगुरुता गात्राणां मधुरशुक्लमूत्रता तन्द्रा सादः पिपासा दुर्गन्धश्च श्वासस्तालुगलजिह्वादन्तेषु मलोत्पत्तिर्जटिलीभावः केशानां वृद्धिश्च नखानाम् ||५||

तत्राविलप्रभूतमूत्रलक्षणाः सर्व एव प्रमेहा भवन्ति ||६||

सर्व एव सर्वदोषसमुत्थाः सह पिडकाभिः ||७||

तत्र, कफादुदकेक्षुवालिकासुरासिकताशनैर्लवणपिष्टसान्द्रशुक्रफेनमेहा दश साध्याः, दोषदूष्याणां समक्रियत्वात्; पित्तान्नीलहरिद्राम्लक्षारमञ्जिष्ठाशोणितमेहाः षड् याप्याः, दोषदूष्याणां विषमक्तियत्वात्; वातात् सर्पिर्वसाक्षौद्रहस्तिमेहाश्चत्वारोऽसाध्यतमाः, महात्ययिकत्वात् ||८||

तत्र वातपित्तमेदोभिरन्वितः श्लेष्मा श्लेष्मप्रमेहाञ्जनयति, वातकफशोणितमेदोभिरन्वितं पित्तं पित्तप्रमेहान्, कफपित्तवसामज्जमेदोभिरन्वितो वायुर्वातप्रमेहान् ||९||

तत्र, श्वेतमवेदनमुदकसदृशमुदकमेही मेहति; इक्षुरसतुल्यमिक्षुवालिकामेही; सुरातुल्यं सुरामेही; सरुजं सिकतानुविद्धं सिकतामेही; शनैः सकफं मृत्स्नं शनैर्मेही; विशदं लवणतुल्यं लवणमेही; हृष्टरोमा पिष्टरसतुल्यं पिष्टमेही; आविलं सान्द्रं सान्द्रमेही; शुक्रतुल्यं शुक्रमेही; स्तोकं स्तोकं सफेनमच्छं फेनमेही मेहति ||१०||

अत ऊर्ध्वं पित्तनिमित्तान् वक्ष्यामः- सफेनमच्छं नीलं नीलमेही मेहति; सदाहं हरिद्राभं हरिद्रामेही; अम्लरसगन्धमम्लमेही; स्रुतक्षारप्रतिमं क्षारमेही; मञ्जिष्ठोदकप्रकाशं मञ्जिष्ठामेही; शोणितप्रकाशं शोणितमेही मेहति ||११||

अत ऊर्ध्वं वातनिमित्तान् वक्ष्यामः- सर्पिःप्रकाशं सर्पिर्मेही मेहति; वसाप्रकाशं वसामेही; क्षौद्ररसवर्णं क्षौद्रमेही; मत्तमातङ्गवदनुप्रबन्धं हस्तिमेही मेहति ||१२||

मक्षिकोपसर्पणमालस्यं मांसोपचयः प्रतिश्यायः शैथिल्यारोचकाविपाकाः कफप्रसेकच्छर्दिनिद्राकासश्वासाश्चेति श्लेष्मजानामुपद्रवाः; वृषणयोरवदरणं बस्तिभेदो मेढ्रतोदो हृदि शूलमम्लीकाज्वरातीसारारोचका वमथुः परिधूपनं दाहो मूर्च्छा पिपासा निद्रानाशः पाण्डुरोगः पीतविण्मूत्रनेत्रत्वं चेति पैत्तिकानां; हृद्ग्रहो लौल्यमनिद्रा स्तम्भः कम्पः शूलं बद्धपुरीषत्वं चेति वातजानाम् |

एवमेते विंशति प्रमेहाः सोपद्रवा व्याख्याताः ||१३||

तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पिडका जायन्ते |

तद्यथा- शराविका, सर्षपिका, कच्छपिका, जालिनी, विनता, पुत्रिणी, मसूरिका, अलजी, विदारिका, विद्रधिका चेति ||१४||

शरावमात्रा तद्रूपा निम्नमध्या शराविका |

गौरसर्षपसंस्थाना तत्प्रमाणा च सार्षपी ||१५||

सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः |

जालिनी तीव्रदाहा तु मांसजालसमावृता ||१६||

महती पिडका नीला पिडका विनता स्मृता |

महत्यल्पाचिता ज्ञेया पिडका सा तु पुत्रिणी ||१७||

मसूरसमसंस्थाना ज्ञेया सा तु मसूरिका |

रक्ता सिता स्फोटवती दारुणा त्वलजी भवेत् ||१८||

विदारीकन्दवद्वृत्ता कठिना च विदारिका |

विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका बुधैः ||१९||

ये यन्मयाः स्मृता मेहास्तेषामेतास्तु तत्कृताः |

गुदे हृदि शिरस्यंसे पृष्ठे मर्मणि चोत्थिताः |

सोपद्रवा दुर्बलाग्नेः पिडकाः परिवर्जयेत् ||२०||

कृत्स्नं शरीरं निष्पीड्य मेदोमज्जवसायुतः |

अधः प्रक्रमते वायुस्तेनासाध्यास्तु वातजाः ||२१||

प्रमेहपूर्वरूपाणामाकृतिर्यत्र दृश्यते |

किञ्चिच्चाप्यधिकं मूत्रं तं प्रमेहिणमादिशेत् ||२२||

कृत्स्नान्यर्धानि वा यस्मिन् पूर्वरूपाणि मानवे |

प्रवृत्तमूत्रमत्यर्थं तं प्रमेहिणमादिरोत् ||२३||

पिडकापीडितं गाढमुपसृष्टमुपद्रवैः |

मधुमेहिनमाचष्टे स चासाध्यः प्रकीर्तितः ||२४||

स चापि गमनात् स्थानं स्थानादासनमिच्छति |

आसनादृणुते शय्यां शयनात् स्वप्नमिच्छति ||२५||

यथा हि वर्णानां पञ्चानामुत्कर्षापकर्षकृतेन संयोगविशेषेण शबलबभ्रुकपिलकपोतमेचकादीनां वर्णानामनेकेषामुत्पत्तिर्भवति, एवमेव दोषधातुमलाहारविशेषेणोत्कर्षापकर्षकृतेन संयोगविशेषेण प्रमेहाणां नानाकरणं भवति ||२६||

भवति चात्र-

सर्व एव प्रमेहास्तु कालेनाप्रतिकुर्वतः|

मधुमेहत्वमायान्ति तदाऽसाध्या भवन्ति हि ||२७||

इति सुश्रुतसंहितायां निदानस्थाने प्रमेहनिदानं नाम षष्ठोऽध्यायः ||६||

Last updated on May 31st, 2021 at 05:29 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi