चरकसंहिता
चिकित्सास्थानम् ।
सप्तमोऽध्याय: ।
अथात: कुष्ठचिकित्सितं व्याख्यास्याम: ॥१॥
इति ह स्माह भगवानात्रेय: ॥२॥
हेतुं द्रव्यं लिङ्गं कुष्ठानामाश्रयं प्रशमनं च ।
शृण्वग्निवेश सम्यग्विशेषत: स्पर्शनघ्नानाम् ॥३॥
विरोधीन्यन्नपानानि द्रवस्निग्धगुरुणि च ।
भजतामागतां छर्दिं वेगांश्चान्यान्प्रतिघ्नताम् ॥४॥
व्यायाममतिसंतापमतिभुक्त्वोपसेविनाम् ।
शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम् ॥५॥
घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम् ।
अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम् ॥६॥
नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम् ।
माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम् ॥७॥
व्यवायं चाप्यजीर्णेऽन्ने निद्रां च भजतां दिवा ।
विप्रान् गुरुन् धर्षयतां पापं कर्म च कुर्वताम् ॥८॥
वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च ।
दूषयन्ति स कुष्ठानां सप्तको द्रव्यसंग्रह: ॥९॥
अत: कुष्ठानि जायन्ते सप्त चैकादशैव च ।
न चैकदोषजं किञ्चित् कुष्ठं समुपलभ्यते ॥१०॥
स्पर्शाज्ञत्वमतिस्वेदो न वा वैवर्ण्यमुन्नति: ।
कोठानां लोमहर्षश्च कण्डूस्तोद: श्रम: क्लम: ॥११॥
व्रणानामधिकं शूलं शीघ्रोत्पत्तिश्चिरस्थिति: ।
दाह: सुप्ताङ्गता चेति कुष्ठलक्षणमग्रजम् ॥१२॥
अत ऊर्ध्वमष्टदशानां कुष्ठानां कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणकैककुष्ठचर्माख्यकिटिमविपादिकाल- सकदद्रुचर्मदलपामाविस्फोटकशतारुर्विचर्चिकानां लक्षणान्युपदेक्ष्याम: ॥१३॥
कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ।
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम् ॥१४॥
दाहकण्डूरुजारागपरीतं लोमपिञ्जरम् ।
उदुम्बरफलाभासं कुष्ठमौदुम्बरं विदु: ॥१५॥
श्वेतं रक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नमण्डलम् ।
कृच्छ्रमन्योन्यसंसक्तं कुष्ठं मण्डलमुच्यते ॥१६॥
कर्कशं रक्तपर्यन्तमन्त: श्यावं सवेदनम् ।
यदृष्यजिह्वसंस्थानमृष्यजिह्वं तदुच्यते ॥१७॥
सश्वेतं रक्तपर्यन्तं पुण्डरीकदलोपमम् ।
सोत्सेधं च सदाहं च पुण्डरीकं तदुच्यते ॥१८॥
श्वेतं ताम्रं तनु च यद्रजो घृष्टं विमुञ्चति ।
अलाबूपुष्पवर्णं तत् सिध्मं प्रायेण चोरसि ॥१९॥
यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम् ।
त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिध्यति ॥२०॥
इति सप्तमहाकुष्ठानि ।
अस्वेदनं महावास्तु यन्मत्स्यशकलोपमम् ।
तदेककुष्ठं, चर्माख्यं बहलं हस्तिचर्मवत् ॥२१॥
श्यावं किणखरस्पर्शं परुषं किटिमं स्मृतम् ।
वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम् ॥२२॥
कण्डूमद्भि: सरागैश्च गण्डैरलसकं चितम् ।
सकण्डूरागपिडकं दद्रुमण्डलमुद्गतम् ॥२३॥
रक्तं सकण्डु सस्फोटं सरुद्गलति चापि यत् ।
तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते ॥२४॥
पामा श्वेतारुणश्यावा: कण्डूला: पिडका भृशम् ।
स्फोटा: श्वेतारुणाभासो विस्फोटा: स्युस्तनुत्वच: ॥२५॥
रक्तं श्यावं सदाहार्ति शतारु: स्याद्बहुव्रणम् ।
सकण्डू: पिडका श्यावा बहुस्रावा विचर्चिका ॥२६॥
इत्येकादश क्षुद्रकुष्ठानि ।
वातेऽधिकतरे कुष्ठं कापालं मण्डलं कफे ।
पित्ते त्वौदुम्बरं विद्यात् काकणं तु त्रिदोषजम् ॥२७॥
वातपित्ते श्लेष्मपित्ते वातश्लेष्मणि चाधिके ।
ऋष्यजिह्वं पुण्डरीकं सिध्मकुष्ठं च जायते ॥२८॥
चर्माख्यमेककुष्ठं च किटिमं सविपादिकम् ।
कुष्ठं चालसकं ज्ञेयं प्रायो वातकफाधिकम् ॥२९॥
पामा शतारुर्विस्फोटं दद्रुश्चर्मदलं तथा ।
पित्तश्लेष्माधिकं प्राय: कफप्राया विचर्चिका ॥३०॥
सर्वं त्रिदोषजं कुष्ठं दोषाणां तु बलाबलम् ।
यथास्वैर्लक्षणैर्बुद्ध्वा कुष्ठानां क्रियते क्रिया ॥३१॥
दोषस्य यस्य पश्येत् कुष्ठेषु विशेषलिङ्गमुद्रिक्तम् ।
तस्यैव शमं कुर्यात्तत: परं चानुबन्धस्य ॥३२॥
कुष्ठविशेषैर्दोषा दोषविशेषै: पुनश्च कुष्ठानि ।
ज्ञायन्ते तैर्हेतुर्हेतुस्तांश्च प्रकाशयति ॥३३॥
रौक्ष्यं शोषस्तोद: शूलं संकोचनं तथाऽऽयाम: ।
पारुष्यं खरभावो हर्ष: श्यावारुणत्वं च ॥३४॥
कुष्ठेषु वातलिङ्गं, दाहो राग: परिस्रव: पाक: ।
विस्रो गन्ध: क्लेदस्तथाऽङ्गपतनं च पित्तकृतम् ॥३५॥
श्वेत्यं शैत्यं कण्डू: स्थैर्यं चोत्सेधगौरवस्नेहा: ।
कुष्ठेषु तु कफलिङ्गं जन्तुभिरभिक्षणं क्लेद: ॥३६॥
सर्वैलिङ्गैर्युक्तं मतिमान् विवर्जयेदबलम् ।
तृष्णादाहपरीतं शान्ताग्निं जन्तुभिर्जग्धम् ॥३७॥
वातकफप्रबलं यद्यदेकदोषोल्बणं न तत् कृच्छ्रम् ।
कफपित्त-वातपित्तप्रबलानि तु कृच्छ्रसाध्यानि ॥३८॥
वातोत्तरेषु सर्पिर्वमनं श्लेष्मोत्तरेषु कुष्ठेषु ।
पित्तोत्तरेषु मोक्षो रक्तस्य विरेचनं चाग्रे ॥३९॥
वमनविरेचनयोगा: कल्पोक्ता: कुष्ठिनां प्रयोक्तव्या: ।
प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम् ॥४०॥
बहुदोष: संशोध्य: कुष्ठी बहुशोऽनुरक्षता प्राणान् ।
दोषे ह्यतिमात्रहृते वायुर्हन्यादबलमाशु ॥४१॥
स्नेहस्य पानमिष्टं शुद्धे कोष्ठे प्रवाहिते रक्ते ।
वायुर्हि शुद्धकोष्ठं कुष्ठिनमबलं विशति शीघ्रम् ॥४२॥
दोषोत्क्लिष्टे हृदये वाम्य: कुष्ठेषु चोर्ध्वभागेषु ।
कुटजफलमदनमधुकै: सपटोलैर्निम्बरसयुक्तै: ॥४३॥
शीतरस: पक्वरसो मधूनि मधुकं च वमनानि ।
कुष्ठेषु त्रिवृता दन्ती त्रिफला च विरेचने शस्ता ॥४४॥
सौवीरकं तुषोदकमालोडनमासवाश्च सीधूनि ।
शंसन्त्यधोहराणां यथाविरेकं क्रमश्चेष्ट: ॥४५॥
दार्वीबृहतीसेव्यै: पटोलपिचुमर्दमदनकृतमालै: ।
सस्नेहैरास्थाप्य: कुष्ठी सकलिङ्गयवमुस्तै: ॥४६॥
वातोल्बणं विरिक्तं निरूढमनुवासनार्हमालक्ष्य ।
फलमधुकनिम्बकुटजै: सपटोलै: साधयेत्स्नेहम् ॥४७॥
सैन्धवदन्तीमरिचं फणिज्झक: पिप्पली करञ्जफलम् ।
नस्यं स्यात्सविडङ्गं क्रिमिकुष्ठकफप्रकोपघ्नम ॥४८॥
वैरेचनिकैर्धूमै: श्लोकस्थानेरितै: प्रशाम्यन्ति ।
कृमय: कुष्ठकिलासा: प्रयोजितैरुत्तमाङ्गस्था: ॥४९॥
स्थिरकठिनमण्डलानां स्विन्नानां प्रस्तरप्रणाडीभि: ।
कूर्चैर्विघट्टितानां रक्तोत्क्लेशोऽपनेतव्य: ॥५०॥
आनूपवारिजानां मांसानां पोट्टलै: सुखोष्णैश्च ।
स्विन्नोत्सन्नं विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण ॥५१॥
रुधिरागमार्थमथवा शृङ्गालाबूनि योजयेत् कुष्ठे ।
प्रच्छितमल्पं कुष्ठं विरेचयेद्वा जलौकोभि: ॥५२॥
ये लेपा: कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम् ।
संशोधिताशयानां सद्य: सिद्धिर्भवेत्तेषाम् ॥५३॥
येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनानि यानि स्यु: ।
तेषु निपात्य: क्षारो रक्तं दोषं च विस्राव्य ॥५४॥
पाषाणकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च ।
पीतागदस्य कार्यो विषै: प्रदेहोऽगदैश्चानु ॥५५॥
स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि।
कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम् ॥५६॥
जात्यर्कनिम्बजैर्वा पत्रै: शस्त्रै: समुद्रफेनैर्वा ।
घृष्टानि गोमयैर्वा तत: प्रदेहै: प्रदेह्यानि ॥५७॥
मारुतकफकुष्ठघ्नं कर्मोक्तं पित्तकुष्ठिनां कार्यम् ।
कफपित्तरक्तहरणं तिक्तकषायै: प्रशमनं च ॥५८॥
सर्पींषि तिक्तकानि च यच्चान्यद्रक्तपित्तनुत् कर्म ।
बाह्यभ्यन्तरमग्र्यं तत् कार्यं पित्तकुष्ठेषु ॥५९॥
दोषाधिक्यविभागादित्येतत् कर्म कुष्ठनुत् प्रोक्तम् ।
वक्ष्यामि कुष्ठशमनं प्रायस्त्वग्दोषसामान्यात् ॥६०॥
दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम् ।
अभया प्रयोजिता वा मासं सव्योषगुडतैला ॥६१॥
मूलं पटोलस्य तथा गवाक्ष्या:
पृथक् पलांशं त्रिफलात्वचश्च ।
स्यात्त्रायमाणा कटुरोहिणी च
भागार्धिका नागरपादयुक्ता ॥६२॥
पलं तथैषां सह चूर्णितानां
जले शृतं दोषहरं पिबेन्ना ।
जीर्णे रसैर्धन्वमृगद्विजानां
पुराणशाल्योदनमाददीत ॥६३॥
कुष्ठानि शोफं ग्रहणीप्रदोषमर्शांसि कृच्छ्राणि हलीमकं च ।
षड्रात्रयोगेन निहन्ति चैष
हृद्बस्तिशूलं विषमज्वरं च ॥६४॥
मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूल्यौ द्वे ।
सप्तच्छदनिम्बत्वक् सविशालश्चित्रको मूर्वा ॥६५॥
चूर्णं तर्पणभागैर्नवभि: संयोजितं समध्वाज्यम् ।
सिद्धं कुष्ठनिबर्हणमेतत् प्रायोगिकं भक्ष्यम् ॥६६॥
श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि ।
ब्रघ्नभगन्दरपिडकाकण्डूकोठांश्च विनिहन्ति ॥६७॥
इति मुस्तादिचूर्णम् ।
त्रिफलातिविषाकटुकानिम्बकलिङ्गकवचापटोलानाम् ।
मागधिकारजनीद्वयपद्मकमूर्वाविशालानाम् ॥६८॥
भूनिम्बपलाशानां दद्याद् द्विपल ततस्त्रिवृद्द्विगुणा ।
तस्याश्च पुनर्ब्राह्मी तच्चूर्णं सुप्तिनुत् परमम् ॥६९॥
नवनीतकप्रयोगो रसेन जात्या: समाक्षिक: परम: ।
सप्तदशकुष्ठघाती माक्षिकधातुश्च मूत्रेण ॥७०॥
श्रेष्ठं गन्धकयोगात् सुवर्णमाक्षिकप्रयोगाद्वा ।
सर्वव्याधिनिबर्हणमद्यात् कुष्ठी रसं च निगृहीतम् ॥७१॥
वज्रशिलाजतुसहितं सहितं वा योगराजेन ।
सर्वव्याधिप्रशमनमद्यात्कुष्ठी निगृह्य नित्यं च ॥७२॥
खदिरसुरदारुसारं श्रपयित्वा तद्रसेन तोयार्थ: ।
क्षौद्रप्रस्थे कार्य: कार्ये ते चाष्टपलिके च ॥७३॥
तत्रायश्चूर्णानामष्टपलं प्रक्षिपेत्तथाऽमूनि ।
त्रिफलैले त्वङ्मरिचं पत्रं कनकं च कर्षांशम् ॥७४॥
मत्स्यण्डिका मधुसमा तन्मासं जातमायसे भाण्डे ।
मध्वासवामाचरत: कुष्ठकिलासे शमं यात: ॥७५॥
इति मध्वासव: ।
खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य ।
द्रव्याणि चूर्णितानि च षट्पलिकान्यत्र देयानि ॥७६॥
त्रिफलाव्योषविडङ्गरजनीमुस्ताटरूषकेन्द्रयवा: ।
सौवर्णी च तथा त्वक् छिन्नरुहा चेति तन्मासम् ॥७७॥
निदधीत धान्यमध्ये प्रात: प्रात: पिबेत्ततो युक्त्या ।
मासेन महाकुष्ठं हन्त्येवाल्पं तु पक्षेण ॥७८॥
अर्श:श्वासभगन्दरकासकिलासप्रमेहशोषांश्च ।
ना भवति कनकवर्ण: पीत्वाऽरिष्टं कनकबिन्दुम् ॥७९॥
इति कनकबिन्द्वरिष्टम्।
कुष्ठेष्वनिलकफकृतेष्वेवं पेयस्तथाऽपि पैत्तेषु ।
कृतमालक्वाथश्चाप्येष विशेषात् कफकृतेषु ॥८०॥
त्रिफलासवश्च गौड: सचित्रक: कुष्ठरोगविनिहन्ता ।
क्रमुकदशमूलदन्तीवराङ्गमधुयोगसंयुक्त: ॥८१॥
लघूनि चान्नानि हितानि विद्यात्
कुष्ठेषु शाकानि च तिक्तकानि ।
भल्लातकै: सत्रिफलै: सनिम्बैर्युक्तानि चान्नानि घृतानि चैव ॥८२॥
पुराणधान्यान्यथ जाङ्गलानि
मांसानि मुद्गाश्च पटोलयुक्ता: ।
शस्ता, न गुर्वम्लपयोदधीनि
नानूपमत्स्या न गुडस्तिलाश्च ॥८३॥
एला कुष्ठं दार्वी शतपुष्पा चित्रको विडङ्गश्च ।
कुष्ठालेपनमिष्टं रसाञ्जनं चाभया चैव ॥८४॥
चित्रकमेलां बिम्बीं वृषकं त्रिवृदर्कनागरकम् ।
चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य ॥८५॥
क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु ।
भिद्यन्ते विलयन्ति च लिप्तान्यर्काभितप्तानि ॥८६॥
मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूम: ।
मूत्रं पित्तं क्षार: पालाश: कुष्ठहा लेप: ॥८७॥
त्रपु सीसमयश्चूर्णं मण्डलनुत् फल्गुचित्रकौ बृहती ।
गोधारस: सलवणो दारु च मूत्रं च मण्डलनुत् ॥८८॥
कदलीपलाशपाटलिनिचुलक्षाराम्भसा प्रसन्नेन ।
मांसेषु तोयकार्यं कार्यं पिष्टे च किण्वे च ॥८९॥
तैर्मेदक: सुजात: किण्वैर्जनितं प्रलेपनं शस्तम् ।
मण्डलकुष्ठविनाशनमातपसंस्थं कृमिघ्नं च ॥९०॥
मुस्तं मदनं त्रिफला करञ्ज आरग्वधकलिङ्गयवा: ।
दार्वी ससप्तपर्णा स्नानं सिद्धार्थकं नाम ॥९१॥
एष कषायो वमनं विरेचनं वर्णकस्तथोद्धर्ष: ।
त्वग्दोषकुष्ठशोफप्रबाधन: पाण्डुरोगघ्न: ॥९२॥
कुष्ठं करञ्जबीजान्येडगज: कुष्ठसूदनो लेप: ।
प्रपुन्नाडबीजसैन्धवरसाञ्जनकपित्थलोध्राश्च ॥९३॥
श्वेतकरवीरमूलं कुटजकरञ्जयो: फलं त्वचो दार्व्या: ।
सुमन:प्रवालयुक्तो लेप: कुष्ठापह: सिद्ध: ॥९४॥
लोध्रस्य धातकीनां वत्सकबीजस्य नक्तमालस्य ।
कल्कश्च मालतीनां कुष्ठेषून्मर्दनालेपौ ॥९५॥
शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि ।
पिष्टा च काकमाची चतुर्विध: कुष्ठनुल्लेप: ॥९६॥
इति लेपा: ।
दार्व्या रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य ।
आरग्वधवृक्षकयोस्त्रिफलाया: सप्तपर्णस्य ॥९७॥
इति षट् कषाययोगा: कुष्ठघ्ना: सप्तमश्च तिनिशस्य ।
स्नाने पाने च हितास्तथाऽष्टमश्चाश्वमारस्य ॥९८॥
आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषाया: ।
तैलघृतपाकयोगे चेष्यन्ते कुष्ठशान्त्यर्थम् ॥९९॥
त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी ।
एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम् ॥१००॥
एतैरेव च सर्पि: सिद्धं वातोल्बणं जयति कुष्ठम् ।
एष च कल्पो दिष्ट: खदिरासनदारुनिम्बानाम् ॥१०१॥
कुष्ठार्कतुत्थकट्फलमूलकबीजानि रोहिणी कटुका ।
कुटजफलोत्पलमुस्तं बृहतीकरवीरकासीसम् ॥१०२॥
एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च ।
तिक्तालाबुकबीजं कम्पिल्लकसर्षपौ वचा दार्वी ॥१०३॥
एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेप: ।
उद्वर्तनं प्रघर्षणमवचूर्णनमेष एवेष्ट: ॥१०४॥
श्वेतकरवीरकरसो गोमूत्रं चित्रको विडङ्गश्च ।
कुष्ठेषु तैलयोग: सिद्धोऽयं संमतो भिषजाम् ॥१०५॥
इति श्वेतकरवीराद्यं तैलम् ।
श्वेतकरवीरपल्लवमूलत्वग्वत्सको विडङ्गश्च ।
कुष्ठार्कमूलसर्षपशिग्रुत्वग्रोहिणी कटुका ॥१०६॥
एतैस्तैलं सिद्धं कल्कै: पादांशिकैर्गवां मूत्रम् ।
दत्त्वा तैलचतुर्गुणमभ्यङ्गात् कुष्ठकण्डूघ्नम ॥१०७॥
इति श्वेतकरवीरपल्लवाद्यं तैलम् ।
तिक्तालाबुकबीजं द्वे तुत्थे रोचना हरिद्रे द्वे ।
बृहतीफलमेरण्ड: सविशालश्चित्रको मूर्वा ॥१०८॥
कासीसहिङ्गुशिग्रुत्र्यूषणसुरदारुतुम्बुरुविडङ्गम् ।
लाङ्गलकं कुटजत्वक् कटुकाख्या रोहिणी चैव ॥१०९॥
सर्षपतैलं कल्कैरेतैर्मूत्रे चतुर्गुणे साध्यम् ।
कण्डूकुष्ठविनाशनमभ्यङ्गान्मारुतकफहन्तृ ॥११०॥
इति तिक्तेक्ष्वाक्वादितैलम् ।
कनकक्षीरी शैला भार्गी दन्त्या: फलानि मूलं च ।
जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक् ॥१११॥
सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोता: ।
गुञ्जैरण्डं बृहतीमूलकसुरसार्जकफलानि ॥११२॥
कुष्ठं पाठा मुस्तं तुम्बुरुमूर्वावचा: सषड्ग्रन्था: ।
एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवका: ॥११३॥
हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासंज्ञ: ।
सौराष्ट्री कासीसं दार्वीत्वक् सर्जिकालवणम् ॥११४॥
कल्कैरेतैस्तैलं करवीरकमूलपल्लवकषाये ।
सार्षपमथवा तैलं गोमूत्रचतुर्गुणं साध्यम् ॥११५॥
स्थाप्यं कटुकालाबुनि तत्सिद्धं तेन मण्डलान्याशु ।
भिन्द्याद्भिषगभ्यङ्गात्कृमींश्च कण्डूं च विनिहन्यात् ॥११६॥
इति कनकक्षीरीतैलम् ।
कुष्ठं तमालपत्रं मरिचं समन:शिलं सकासीसम् ।
तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे ॥११७॥
तेनालिप्तं सिध्मं सप्ताहाद्व्येति तिष्ठतो घर्मे ।
मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनो: ॥११८॥
इति सिध्मे लेप: ।
सर्षपकरञ्जकोषातकीनां तैलान्यथेङ्गुदीनां च ।
कुष्ठेषु हितान्याहुस्तैलं यच्चापि खदिरसारस्य ॥११९॥
जीवन्ती मञ्जिष्ठा दार्वी कम्पिल्लक: पयस्तुत्थम् ।
एष घृततैलपाक: सिद्ध: सिद्धे च सर्जरस: ॥१२०॥
देय: समधूच्छिष्टो विपादिका तेन शाम्यतेऽभ्यक्ता ।
चर्मैककुष्ठकिटिमं कुष्ठं शाम्यत्यलसकं च ॥१२१॥
इति विपादिकाहरघृततैले ।
किण्वं वराहरुधिरं पृथ्वीका सैन्धवं च लेप: स्यात् ।
लेपो योज्य: कुस्तुम्बुरूणि कुष्ठं च मण्डलनुत् ॥१२२॥
पूतीकदारुजटिला: पक्वसुरा क्षौद्रमुद्गपर्ण्यौ च ।
लेप: सकाकनासो मण्डलकुष्ठापह: सिद्ध: ॥१२३॥
चित्रकशोभाञ्जनकौ गुडूच्यपामार्गदेवदारूणि ।
खदिरो धवश्च लेप: श्यामा दन्ती द्रवन्ती च ॥१२४॥
लाक्षारसाञ्जनैला: पुनर्नवा चेति कुष्ठिनो लेपा: ।
दधिमण्डयुता: सर्वे देया: षण्मारुतकफकुष्ठघ्ना: ॥१२५॥
एडगजकुष्ठसैन्धवसौवीरकसर्षपै: कृमिघ्नैश्च ।
कृमिकुष्ठमण्डलाख्यं दद्रूकुष्ठं च शममुपैति ॥१२६॥
एडगज: सर्जरसो मूलकबीजं च सिध्मकुष्ठानाम् ।
काञ्जिकयुक्तं तु पृथङ्मतमिदमुद्वर्तनं लेपा: ॥१२७॥
वासा त्रिफला पाने चोद्वर्तने प्रलेपे च ।
बृहतीसेव्यपटोला: ससारिवा रोहिणी चैव ॥१२८॥
खदिरावघातककुभरोहीतकलोध्रकुटजधवनिम्बा: ।
सप्तच्छदकरवीरा: शस्यन्ते स्नानपानेषु ॥१२९॥
जलवाप्यलोहकेशरपत्रप्लवचन्दनं मृणालानि ।
भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे ॥१३०॥
यष्ट्याह्वलोध्रपद्मकपटोलपिचुमर्दचन्दनरसाश्च ।
स्नाने पाने च हिता: सुशीतला: पित्तकुष्ठिभ्य: ॥१३१॥
आलेपनं प्रियङ्गुर्हरेणुका वत्सकस्य च फलानि ।
सातिविषा च ससेव्या सचन्दना रोहिणी कटुका ॥१३२॥
तिक्तघृतैर्धौतघृतैरभ्यङ्गो दह्यमानकुष्ठेषु ।
तैलैश्चन्दनमधुकप्रपौण्डरीकोत्पलयुतैश्च ॥१३३॥
क्लेदे प्रपतति चाङ्गे दाहे विस्फोटके सचर्मदले ।
शीता: प्रदेहसेका व्यधो विरेको घृतं तिक्तम् ॥१३४॥
खदिरघृतं निम्बघृतं दार्वीघृतमुत्तमं पटोलघृतम् ।
कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम् ॥१३५॥
त्रिफलात्वचोऽर्धपलिका: पटोलपत्रं च कार्षिका: शेषा:।
कटुरोहिणी सनिम्बा यष्ट्याह्वा त्रायमाणा च ॥१३६॥
एष कषाय: साध्यो दत्त्वा द्विपलं मसूरविदलानाम् ।
सलिलाढकेऽष्टभागे शेषे पूतो रसो ग्राह्य: ॥१३७॥
ते च कषायेऽष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम् ।
यावत्स्यादष्टपलं शेषं पेयं तत: कोष्णम् ॥१३८॥
तद्वातपित्तकुष्ठं वीसर्पं वातशोणितं प्रबलम् ।
ज्वरदाहगुल्मविद्रधिविभ्रमविस्फोटकान् हन्ति ॥१३९॥
निम्बपटोलं दार्वीं दुरालभां तिक्तरोहिणीं त्रिफलाम् ।
कुर्यादर्धदलांशं पर्पटकं त्रायमाणां च ॥१४०॥
सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत् पूते ।
चन्दनकिराततिक्तकमागधिकास्त्रायमाणां च ॥१४१॥
मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान् ।
नवसर्पिषश्च षट्पलमेतत्सिद्धं घृतं पेयम् ॥१४२॥
कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि ।
पामाविसर्पपिडकाकण्डूमदगण्डनुत्सिद्धम् ॥१४३॥
इति तिक्तषट्पलकं घृतम् ।
सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम् ।
मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम् ॥१४४॥
धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे ।
षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे ॥१४५॥
वत्सकबीजं यासं मूर्वाममृतां किराततिक्तं च ।
कल्कान् कुर्यान्मतिमान्यष्ट्याह्वं त्रायमाणां च ॥१४६॥
कल्कश्चतुर्भागो जलमष्टगुणं रसोऽमृतफलानाम् ।
द्विगुणो घृतात्प्रदेयस्तत्सर्पि: पाययेत्सिद्धम् ॥१४७॥
कुष्ठानि रक्तपित्तप्रबलान्यर्शांसि रक्तवाहीनि ।
वीसर्पमम्लपित्तं वातासृक् पाण्डुरोगं च ॥१४८॥
विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम् ।
हृद्रोगगुल्मपिडका असृग्दरं गण्डमालां च ॥१४९॥
हन्यादेतत् सर्पि: पीतं काले यथाबलं सद्य: ।
योगशतैरप्यजितान्महाविकारान्महातिक्तम् ॥१५०॥
इति महातिक्तकं घृतम् ।
दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने ।
स्नेहे च कालयुक्ते न कुष्ठमनुवर्तते साध्यम् ॥१५१॥
खदिरस्य तुला: पञ्च शिंशपासनयोस्तुले ।
तुलार्धा: सर्व एवैते करञ्जारिष्टवेतसा: ॥१५२॥
पर्पट: कुटजश्चैव वृष: कृमिहरस्तथा ।
हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत् ॥१५३॥
सप्तपर्णश्च संक्षुण्णा दशद्रोणेषु वारिण: ।
अष्टभागावशेषं तु कषायमवतारयेत् ॥१५४॥
धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत् ।
महातिक्तककल्कैस्तु यथोक्तै: पलसंमितै: ॥१५५॥
निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात् ।
महाखदिरमित्येतत् परं कुष्ठविकारनुत् ॥१५६॥
इति महाखदिरं घृतम् ।
प्रपतत्सु लसीकाप्रस्रुतेषु गात्रेषु जन्तुजग्धेषु ।
मूत्रं निम्बविडङ्गे स्नानं पानं प्रदेहश्च ॥१५७॥
वृषकुटजसप्तपर्णा: करवीरकरञ्जनिम्बखदिराश्च ।
स्नाने पाने लेपे क्रिमिकुष्ठनुद: सगोमूत्रा: ॥१५८॥
पानाहारविधाने प्रसेचने धूपने प्रदेहे च ।
कृमिनाशनं विडङ्गं विशिष्यते कुष्ठहा खदिर: ॥१५९॥
एडगज: सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम् ।
उद्दालनं श्वदन्ता गोश्ववराहोष्ट्रदन्ताश्च ॥१६०॥
एडगज: सविडङ्गो द्वे च निशे राजवृक्षमूलं च ।
कुष्ठोद्दालनमग्र्यं सपिप्पलीपाकलं योज्यम् ॥१६१॥
श्वित्राणां सविशेषं योक्तव्यं सर्वतो विशुद्धानाम् ।
श्वित्रे स्रंसनमग्र्यं मलपूरस इष्यते सगुड: ॥१६२॥
तं पीत्वा सुस्निग्धो यथाबलं सूर्यपादसंतापम् ।
संसेवेत विरिक्तस्त्र्यहं पिपासु: पिबेत् पेयाम् ॥१६३॥
श्वित्रेऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान्भिन्द्यात् ।
स्फोटेषु विस्रुतेषु प्रात: प्रात: पिबेत् पक्षम् ॥१६४॥
मलपूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य ।
पालाशं वा क्षारं यथाबलं फाणितोपेतम् ॥१६५॥
यच्चान्यत् कुष्ठघ्नं श्वित्राणां सर्वमेव तच्छस्तम् ।
खदिरोदकसंयुक्तं खदिरोदकपानमग्र्यं वा ॥१६६॥
समन: शिलं विडङ्गं कासीसं रोचनां कनकपुष्पीम् ।
श्वित्राणां प्रशमार्थं ससैन्धवं लपेनं दद्यात् ॥१६७॥
कदलीक्षारयुतं वा खरास्थि दग्धं गवां रुधिरयुक्तम् ।
हस्तिमदाध्युषितं वा मालत्या: कोरकक्षारम् ॥१६८॥
नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा ।
मूलकबीजावल्गुजलेप: पिष्टो गवां मूत्रे ॥१६९॥
काकोदुम्बरिका वा सावल्गुजचित्रका गवां मूत्रे ।
पिष्टा मन:शिला वा संयुक्ता बर्हिपित्तेन ॥१७०॥
लेप: किलासहन्ता बीजान्यावल्गुजानि लाक्षा च ।
गोपित्तमञ्जने द्वे पिप्पल्य: काललोहरज: ॥१७१॥
शुद्ध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम् ।
श्वित्रं कस्यचिदेव प्रणश्यति क्षीणपापस्य ॥१७२॥
दारुणं चारुणं श्वित्रं किलासं नामभिस्त्रिभि: ।
विज्ञेयं त्रिविधं तच्च त्रिदोषं प्रायशश्च तत् ॥१७३॥
दोषे रक्ताश्रिते रक्तं ताम्रं मांससमाश्रिते ।
श्वेतं मेद:श्रिते श्वित्रं गुरु तच्चोत्तरोत्तरम् ॥१७४॥
यत् परस्परतोऽभिन्नं बहु यद्रक्तलोमवत् ।
यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति ॥१७५॥
अरक्तलोम तनु यत् पाण्डु नातिचिरोत्थितम् ।
मध्यावकाशे चोच्छूनं श्वित्रं तत्साध्यमुच्यते ॥१७६॥
वचांस्यतथ्यानि कृतघ्नभावो
निन्दा सुराणां गुरुघर्षणं च ।
पापक्रिया पूर्वकृतं च कर्म
हेतु: किलासस्य विरोधि चान्नम् ॥१७७॥
तत्र श्लोका:–
हेतुर्द्रव्यं लिङ्गं विविधं ये येषु चाधिका दोषा: ।
कुष्ठेषु दोषलिङ्गं समासतो दोषनिर्देश: ॥१७८॥
साध्यमसाध्यं कृच्छ्रं कुष्ठं कुष्ठापहाश्च ये योगा: ।
सिद्धा: किलासहेतुर्लिङ्गं गुरुलाघवं तथा शान्ति: ॥१७९॥
इति संग्रह: प्रणीतो महर्षिणा कुष्ठनाशनेऽध्याये ।
स्मृतिबुद्धिवर्धनार्थं शिष्याय हुताशवेशाय ॥१८०॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने कुष्ठचिकित्सितं नाम
सप्तमोऽध्याय: ॥७॥
Last updated on June 21st, 2021 at 05:22 am