विषय सूची पर जायें

19. नयनाभिघातप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

एकोनविंशतितमोऽध्याय: ।

अथातो नयनाभिघातप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

अभ्याहते तु नयने बहुधा नराणां संरम्भरागतुमुलासु रुजासु धीमान् |
नस्यास्यलेपपरिषेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम् ||३||

दृष्टिप्रसादजननं विधिमाशु कुर्यात् स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः |
स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्याहतामपि तथैव भिषक् चिकित्सेत् ||४||

सद्योहते नयन एष विधिस्तदूर्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः |
अभ्याहतं नयनमीषदथास्यबाष्पसंस्वेदितं भवति तन्निरुजं क्षणेन ||५||

साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रे त्रीणि क्षतानि पटलानि विवर्जयेत्तु |
स्यात् पिच्चितं च नयनं ह्यति चावसन्नं स्रस्तं च्युतं च हतदृक् च भवेत्तु याप्यम् ||६||

विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि, साध्यं यथास्थितमनाविलदर्शनं च |
प्राणोपरोधवमनक्षुतकण्ठरोधैरुन्नम्यमाशु नयनं यदतिप्रविष्टम् ||७||

नेत्रे विलम्बिनि विधिर्विहितः पुरस्तादुच्छिङ्घनं शिरसि वार्यवसेचनं च |
षट्सप्ततिर्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महतां च तेभ्यः ||८||

स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बालाक्षिवर्त्मभव एव कुकूणकोऽन्यः |
मृद्गाति नेत्रमतिकण्डुमथाक्षिकूटं नासाललाटमपि तेन शिशुः स नित्यम् ||९||

सूर्यप्रभां न सहते स्रवति प्रबद्धं, तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च |
क्षौद्रायुतैश्च कटुभिः प्रतिसारयेत्तु मातुः शिशोरभिहितं च विधिं विदध्यात् ||१०||

तं वामयेत्तु मधुसैन्धवसम्प्रयुक्तैः पीतं पयः खलु फलैः खरमञ्जरीणाम् ||११||

स्यात्पिप्पलीलवणमाक्षिकसंयुतैर्वानैनं वमन्तमपि वामयितुं यतेत |
दत्त्वा वचामशनदुग्धभुजे प्रयोज्यमूर्ध्वं ततः फलयुतं वमनं विधिज्ञैः ||१२||

जम्ब्वाम्रधात्र्यणुदलैः परिधावनार्थं कार्यं कषायमवसेचनमेव चापि |
आश्च्योतने च हितमत्र घृतं गुडूचीसिद्धं तथाऽऽहुरपि च त्रिफलाविपक्वम् ||१३||

नेपालजामरिचशङ्खरसाञ्जनानि सिन्धुप्रसूतगुडमाक्षिकसंयुतानि |
स्यादञ्जनं, मधुरसामधुकाम्रकैर्वा कृष्णायसं घृतपयो मधु वाऽपि दग्धम् ||१४||

व्योषं पलाण्डु मधुकं लवणोत्तमं च लाक्षां च गौरिकयुतां गुटिकाञ्जनं वा |
निम्बच्छदं मधुकदार्वि सताम्रलोध्रमिच्छन्ति चात्र भिषजोऽञ्जनमंशतुल्यम् ||१५||

स्रोतोजशङ्खदधिसैन्धवमर्धपक्षं शुक्रं शिशोर्नुदति भावितमञ्जनेन |
स्यन्दे कफदभिहितं क्रममाचरेच्च बालस्य रोगकुशलोऽक्षिगदं जिघांसुः ||१६||

समुद्र इव गम्भीरं नैव शक्यं चिकित्सितम् |
वक्तुं निरवशेषेण श्लोकानामयुतैरपि ||१७||

सहस्रैरपि वा, प्रोक्तमर्थमल्पमतिर्नरः |
तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः ||१८||

तदिदं बहुगूढार्थं चिकित्साबीजमीरितम् |
कुशलेनाभिपन्नं तद्बहुधाऽभिप्ररोहति ||१९||

तस्मान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना |
सर्वमूह्यमगाधार्थं शास्त्रमागमबुद्धिना ||२०||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नयनाभिघातचिकित्सितं नामैकोनविंशोऽध्यायः ||१९||

Last updated on July 8th, 2021 at 11:46 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi