सुश्रुतसंहिता ।
सूत्रस्थानम् ।
षष्ठोऽध्यायः।
अथात ऋतुचर्यमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
कालो हि नाम (भगवान्) स्वयम्भुरनादिमध्यनिधनः |
अत्र रसव्यापत्सम्पत्ती जीवितमरणे च मनुष्याणामायत्ते |
स सूक्ष्मामपि कलां न लीयत इति कालः, सङ्कलयति कालयति वा भूतानीति कालः ||३||
तस्य संवत्सरात्मनो भगवानादित्यो गतिविशेषेणाक्षिनिमेषकाष्ठाकलामुहूर्ताहोरात्रपक्षमासर्त्वयनसंवत्सरयुगप्रविभागं करोति ||४||
तत्र लघ्वक्षरोच्चारणमात्रोऽक्षिनिमेषः, पञ्चदशाऽक्षिनिमेषाः काष्ठा, त्रिंशत्काष्ठाः कला, विंशतिकलो मुहूर्तः कलादशभागश्च, त्रिंशन्मुहूर्तमहोरात्रं, पञ्चदशाहोरात्राणि पक्षः, स च द्विविधः- शुक्लः कृष्णश्च, तौ मासः ||५||
तत्र माघादयो द्वादश मासाः, द्विमासिकमृतुं कृत्वा षडृतवो भवन्ति; ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः |
तेषां तपस्तपस्यौ शिशिरः, मधुमाधवौ वसन्तः, शुचिशुक्रौ ग्रीष्मः, नभोनभस्यौ वर्षाः, इषोर्जौ शरत्, सहःसहस्यौ हेमन्त इति ||६||
त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः कालविभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरं च |
तयोर्दक्षिणं वर्षाशरद्धेमन्ताः; तेषु भगवानाप्यायते सोमः, अम्ललवणमधुराश्च रसा बलवन्तो भवन्ति, उत्तरोत्तरं च सर्वप्राणिनां बलमभिवर्धते |
उत्तरं च शिशिरवसन्तग्रीष्माः, तेषु भगवानाप्यायतेऽर्कः, तिक्तकषायकटुकाश्च रसा बलवन्तो भवन्ति, उत्तरोत्तरं च सर्वप्राणिनां बलमुपहीयते ||७||
भवति चात्र-
शीतांशुः क्लेदयत्युर्वीं विवस्वान् शोषयत्यपि | तावुभावपि संश्रित्य वायुः पालयति प्रजाः ||८||
अथ खल्वयने द्वे युगपत् संवत्सरो भवति |
ते तु पञ्च युगमिति सञ्ज्ञां लभन्ते |
स एष निमेषादिर्युगपर्यन्तः कालश्चक्रवत् परिवर्तमानः कालचक्रमित्युच्यत इत्येके ||९||
इह तु वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृषः षडृतवो भवन्ति, दोषोपचयप्रकोपोपशमनिमित्तं; ते तु भाद्रपदाद्येन द्विमासिकेन व्याख्याताः; तद्यथा- भाद्रपदाश्वयुजौ वर्षाः, कार्तिकमार्गशीर्षौ शरत्, पौषमाघौ हेमन्तः, फाल्गुनचैत्रौ वसन्तः, वैशाखज्येष्ठौ ग्रीष्मः; आषाढश्रावणौ प्रावृडिति ||१०||
तत्र, वर्षास्वोषधयस्तरुण्योऽल्पवीर्या आपश्चाप्रशान्ताः क्षितिमलप्रायाः, ता उपयुज्यमाना नभसि मेघावतते जलप्रक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातविष्टम्भिताग्नीनां विदह्यन्ते, विदाहात् पित्तसञ्चयमापादयन्ति; स सञ्चयः शरदि प्रविरलमेघे वियत्युपशुष्यति पङ्केऽर्ककिरणप्रविलायितः पैत्तिकान् व्याधीञ्जनयति |
ता एवौषधयः कालपरिणामात् परिणतवीर्या बलवत्यो हेमन्ते भवन्त्यापश्च प्रशान्ताः स्निग्धा अत्यर्थं गुर्व्याश्च, ता उपयुज्यमाना मन्दकिरणत्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहिनामविदग्धाः स्नेहाच्छैत्याद्गौरवादुपलेपाच्च श्लेष्मसञ्चयमापादयन्ति; स सञ्चयो वसन्तेऽर्करश्मिप्रविलायित ईषत्स्तब्धदेहानां देहिनां श्लैष्मिकान् व्याधीञ्जनयति |
ता एवौषधयो निदाघे निःसारा रूक्षा अतिमात्रं लघ्व्यो भवन्त्यापश्च, ता उपयुज्यमानाः सूर्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्याल्लघुत्वाच्च वायोः सञ्चयमापादयन्ति; स सञ्चयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां देहिनां शीतवातवर्षेरितो वातिकान् व्याधीञ्जनयति |
एवमेष दोषाणां सञ्चयप्रकोपहेतुरुक्तः ||११||
तत्र वर्षाहेमन्तग्रीष्मेषु सञ्चितानां दोषाणां
शरद्वसन्तप्रावृट्सु च प्रकुपितानां निर्हरणं कर्तव्यम् ||१२||
तत्र पैत्तिकानां व्याधीनामुपशमो हेमन्ते, श्लैष्मिकाणां निदाघे, वातिकानां शरदि, स्वभावत एव; त एते सञ्चयप्रकोपोपशमा व्याख्याताः ||१३||
तत्र, पूर्वाह्णे वसन्तस्य लिङ्गं, मध्याह्ने ग्रीष्मस्य, अपराह्णे प्रावृषः, प्रदोषे वार्षिकं, शारदमर्धरात्रे, प्रत्युषसि हैमन्तमुपलक्षयेत्; एवमहोरात्रमपि वर्षमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रकोपोपशमैर्जानीयात् ||१४||
तत्र, अव्यापन्नेषु ऋतुष्वव्यापन्ना ओषधयो भवन्त्यापश्च; ता उपयुज्यमानाः प्राणायुर्बलवीर्यौजस्कर्यो भवन्ति ||१५||
तेषां पुनर्व्यापदोऽदृष्टकारिताः, शीतोष्णवातवर्षाणि खलु विपरीतान्योषधीर्व्यापादयन्त्यपश्च ||१६||
तासामुपयोगाद्विविधरोगप्रादुर्भावो मरको वा भवेदिति ||१७||
तत्र, अव्यापन्नानामोषधीनामपां चोपयोगः ||१८||
कदाचिदव्यापन्नेष्वपि ऋतुषु कृत्याभिशापरक्षःक्रोधाधर्मैरुपध्वस्यन्ते जनपदाः, विषौषधिपुष्पगन्धेन वा वायुनोपनीतेनाक्रम्यते यो देशस्तत्र दोषप्रकृत्यविशेषेण कासश्वासवमथुप्रतिश्यायशिरोरुग्ज्वरैरुपतप्यन्ते, ग्रहनक्षत्रचरितैर्वा, गृहदारशयनासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमित्तप्रादुर्भावैर्वा ||१९||
तत्र, स्थानपरित्यागशान्तिकर्मप्रायश्चित्तमङ्गलजपहोमोपहारेज्याञ्जलिनमस्कारतपोनियम- दयादानदीक्षाभ्युपगमदेवताब्राह्मणगुरुपरैर्भवितव्यम्, एवं साधु भवति ||२०||
अत ऊर्ध्वमव्यापन्नानामृतूनां लक्षणान्युपदेक्ष्यामः ||२१||
वायुर्वात्युत्तरः शीतो रजोधूमाकुला दिशः |
छन्नस्तुषारैः सविता हिमानद्धा जलाशयाः ||२२||
दर्पिता ध्वाङ्क्षखङ्गाह्वमहिषोरभ्रकुञ्जराः |
रोध्रप्रियङ्गुपुन्नागाः पुष्पिता हिमसाह्वये ||२३||
शिशिरे शीतमधिकं वातवृष्ट्याकुला दिशः |
शेषं हेमन्तवत् सर्वं विज्ञेयं लक्षणं बुधैः ||२४||
सिद्धविद्याधरवधूचरणालक्तकाङ्किते |
मलये चन्दनलतापरिष्वङ्गाधिवासिते ||२५||
वाति कामिजनानन्दजननोऽनङ्गदीपनः |
दम्पत्योर्मानभिदुरो वसन्ते दक्षिणोऽनिलः ||२६||
दिशो वसन्ते विमलाः काननैरुपशोभिताः |
किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः ||२७||
कोकिलाषट्पदगणैरुपगीता मनोहराः |
दक्षिणानिलसंवीताः सुमुखाः पल्लवोज्ज्वलाः ||२८||
ग्रीष्मे तीक्ष्णांशुरादित्यो मारुतो नैरृतोऽसुखः |
भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्वलिता इव ||२९||
भ्रान्तचक्राह्वयुगलाः पयःपानाकुला मृगाः |
ध्वस्तवीरुत्तृणलता विपर्णाङ्कितपादपाः ||३०||
प्रावृष्यम्बरमानद्धं पश्चिमानिलकर्षितैः |
अम्बुदैर्विद्युदुद्द्योतप्रस्रुतैस्तुमुलस्वनैः ||३१||
कोमलश्यामशष्पाढ्या शक्रगोपोज्ज्वला मही |
कदम्बनीपकुटजसर्जकेतकभूषिता ||३२||
तत्र वर्षासु नद्योऽम्भश्छन्नोखाततटद्रुमाः |
वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः ||३३||
भूरव्यक्तस्थलश्वभ्रा बहुशस्योपशोभिता |
नातिगर्जत्स्रवन्मेघनिरुद्धार्कग्रहं नभः ||३४||
बभ्रुरुष्णः शरद्यर्कः श्वेताभ्रविमलं नभः |
तथा सरांस्यम्बुरुहैर्भान्ति हंसांसघट्टितैः ||३५||
पङ्कशुष्कद्रुमाकीर्णा निम्नोन्नतसमेषु भूः |
बाणसप्ताह्वबन्धूककाशासनविराजिता ||३६||
स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः |
विषमेष्वपि वा दोषाः कुप्यन्त्यृतुषु देहिनाम् ||३७||
हरेद्वसन्ते श्लेष्माणं पित्तं शरदि निर्हरेत् |
वर्षासु शमयेद्वायुं प्राग्विकारसमुच्छ्रयात् ||३८||
इति सुश्रुतसंहितायां सूत्रस्थाने ऋतुचर्या नाम षष्ठोऽध्यायः ||६||
Last updated on May 24th, 2021 at 05:59 am