अष्टाङ्गहृदयस्य (सूत्रस्थानम्) द्रवद्रव्यविज्ञानीय पञ्चमोऽध्यायः
अथातो द्रवद्रव्यविज्ञानीयमध्यायं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः॥
अथ तोयवर्गः।
जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम्।
तन्वव्यक्तरसं मृष्टं शीतं लघ्वमृतोपमम्॥१॥
गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्वर्केन्दुमारुतैः।
हिताहितत्वे तद्भूयो देशकालावपेक्षते॥२॥
येनाभिवृष्टममलं शाल्यन्नं राजते स्थितम्।
अक्लिन्नमविवर्णं च तत्पेयं गाङ्गम् अन्यथा॥३॥
सामुद्रं, तन्न पातव्यं मासादाश्वयुजाद्विना।
ऐन्द्रमम्बु सुपात्रस्थमविपन्नं सदा पिबेत्॥४॥
तदभावे च भूमिष्ठमान्तरिक्षानुकारि यत्।
शुचिपृथ्वसितश्वेते देशेऽर्कपवनाहतम्॥५॥
न पिबेत्पङ्कशैवालतृणपर्णाविलास्तृतम्।
सूर्येन्दुपवनादृष्टमभिवृष्टं घनं गुरु॥६॥
फेनिलं जन्तुमत्तप्तं दन्तग्राह्यतिशैत्यतः।
अनार्तवं च यद्दिव्यमार्तवं प्रथमं च यत्॥७॥
लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम्।
पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः॥८॥
पथ्याः समासात्ता नद्यो विपरीतास्त्वतोऽन्यथा।
उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः॥९॥
हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिराः।
कृमिश्लीपदहृत्कण्ठशिरोरोगान् प्रकुर्वते॥१०॥
प्राच्यावन्त्यपरान्तोत्था दुर्नामानि, महेन्द्रजाः।
उदरश्लीपदातङ्कान्, सह्यविन्ध्योद्भवाः पुनः॥११॥
कुष्ठपाण्डुशिरोरोगान्, दोषघ्नयः पारियात्रजाः।
बल पौरुषकारिण्यः, सागराम्भस्त्रिदोषकृत्॥१२॥
विद्यात्कूपतडागादीन् जाङ्गलानूपशैलतः।
नाम्बु पेयमशक्त्या वा स्वल्पमल्पाग्निगुल्मिभिः॥१३॥
पाण्डूदरातिसारार्शोग्रहणीशोषशोथिभिः।
ऋते शरन्निदाघाभ्यां पिबेत्स्वस्थोऽपि चाल्पशः॥१४॥
समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः।
शीतं मदात्ययग्लानिमूर्छाच्छर्दिश्रमभ्रमान्॥१५॥
तृष्णोष्णदाहपित्तास्रविषाण्यम्बु नियच्छति।
दीपनं पाचनं कण्ठ्यं लघूष्णं बस्तिशोधनम्॥१६॥
हिध्माध्मानानिलश्लेष्मसद्यःशुद्धिनवज्वरे।
कासामपीनसश्वासपार्श्वरुक्षु च शस्यते॥१७॥
अनभिष्यन्दि लघु च तोयं क्वथितशीतलम्।
पित्तयुक्ते हितं दोषे, व्युषितं तत् त्रिदोषकृत्॥१८॥
नारिकेलोदकं स्निग्धं स्वादु वृष्यं हिमं लघु।
तृष्णापित्तानिलहरं दीपनं बस्तिशोधनं॥१९॥
वर्षासु दिव्यनादेये परं तोये वरावरे।
इति तोय वर्गः।
अथ क्षीरवर्गः।
स्वादुपाकरसं स्निग्धमोजस्यं धातुवर्धनम्॥२०॥
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम्।
प्रायः पयः।
अत्र गव्यं तु जीवनीयं रसायनम्॥२१॥
क्षतक्षीणहितं मेध्यं बल्यं स्तन्यकरं सरम्।
श्रमभ्रममदालक्ष्मीश्वासकासातितृट्क्षुधः॥२२॥
जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत्।
हितमत्यग्नयनिद्रेभ्यो गरीयो माहिषं हिमम्॥२३॥
अल्पाम्बुपानव्यायामकटुतिक्ताशनैर्लघु।
आजं शोषज्वरश्वासरक्तपित्तातिसारजित्॥२४॥
ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु।
शस्तं वातकफानाहकृमिशोफोदरार्शसाम्।२५॥
मानुषं वातपित्तासृगभिघाताक्षिरोगजित्।
तर्पणाश्चोतनैर्नस्यैः अहृद्यं तूष्णमाविकम्॥२६॥
वातव्याधिहरं हिध्माश्वासपित्तकफप्रदम्।
हस्तिन्याः स्थैर्यकृत् बाढमुष्णं त्वैकशफं लघु॥२७॥
शाखावातहरं साम्ललवणं जडताकरम्।
पयोऽभिष्यन्दि गुर्वामं, युक्त्या शृतमतोऽन्यथा॥२८॥
भवेद्गरीयोऽतिशृतं, धारोष्णममृतोपमम्।
अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित्॥२९॥
मेदः शुक्रबलश्लेष्मपित्तरक्ताग्निशोफकृत्।
रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे॥३०॥
पीनसे मूत्रकृच्छ्रे च, रूक्षं तु ग्रहणीगदे।
नैवाद्यान्निशि नैवोष्णं वसन्तोष्णशरत्सु न॥३१॥
नामुद्गसूपं नाक्षौद्रं तन्नाघृतसितोपलम्।
न चानामलकं नापि नित्यं नो मन्दमन्यथा॥३२॥
ज्वरासृक्पित्तवीसर्पकुष्ठपाण्डुभ्रमप्रदम्।
तक्रं लघु कषायाम्लं दीपनं कफवातजित्॥३३॥
शोफोदरार्शोग्रहणीदोषमूत्रग्रहारुचीः।
प्लीहगुल्मघृतव्यापद्गरपाण्ड्वामयान् जयेत्॥३४॥
तद्वन्मस्तु सरं स्रोतःशोधि विष्टम्भजिल्लघु।
नवनीतं नवं वृष्यं शीतं वर्णबलाग्निकृत्॥३५॥
सङ्ग्राहि वातपित्तासृक्क्षयार्शोर्दितकासजित्।
क्षीरोद्भवं तु सङ्ग्राहि रक्तपित्ताक्षिरोगजित्॥३६॥
शस्तं धीस्मृतिमेधाग्निबलायुःशुक्रचक्षुषाम्।
बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम्॥३७॥
क्षतक्षीणपरीसर्पशस्त्राग्निग्लपितात्मनाम्।
वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम्॥३८॥
स्नेहानामुत्तमं शीतं वयसः स्थापनं परम्।
सहस्रवीर्यं विधिभिर्घृतं कर्मसहस्रकृत्॥३९॥
मदापस्मारमूर्च्छायशिरःकर्णाक्षियोनिजान्।
पुराणं जयति व्याधीन् व्रणशोधनरोपणम्॥४०॥
बल्याः किलाटपीयूषकूर्चिकामोरणादयः।
शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः॥४१॥
गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसम्भवे।
इति क्षीरवर्गः।
अथेक्षुवर्गः
इक्षोः सरो गुरुः स्निग्धो बृंहणः कफमूत्रकृत्॥४२॥
वृष्यः शीतोऽस्रपित्तघ्न: स्वादुपाकरसो रसः।
सोऽग्रे सलवणो, दन्तपडितः शर्करासमः॥४३॥
मूलाग्रजन्तुजग्धादिपीडनान्मलसङ्करात्।
किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः॥४४॥
विदाही गुरुविष्टम्भी तेनासौ तत्र पौण्ड्रकः।
शैत्यप्रसादमाधुर्यैर्वरस्तमनु वांशिकः॥४५॥
शतपर्वककान्तारनैपालाद्यास्ततः क्रमात्।
सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः॥४६॥
फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम्।
नातिश्लेष्मकरो धौतः सृष्टमूत्रशकृद्गुडः॥४७॥
प्रभूतकृमिमज्जासृङ्मेदोमांसकफोऽपरः।
हृद्यः पुराणः पथ्यश्च, नवः श्लेष्माग्निसादकृत्॥४८॥
वृष्याः क्षीणक्षतहिता रक्तपित्तानिलापहाः।
मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः॥४९॥
तद्गुणा तिक्तमधुरा कषाया यासशर्करा।
दाहतृट्च्छर्दिमूर्च्छासृक्पित्तघ्नयः सर्वशर्कराः॥५०॥
शर्करेक्षुविकाराणां फाणितं च वरावरे।
चक्षुष्यं छेदि तृट्श्लेष्मविषहिध्मास्रपित्तनुत्॥५१॥
मेहकुष्ठकृमिच्छर्दिश्वासकासातिसारजित्।
व्रणशोधनसन्धानरोपणं वातलं मधु॥५२॥
रूक्षं कषायमधुरं, तत्तुल्या मधुशर्करा।
उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैर्निहन्ति तत्॥५३॥
प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते।
अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्तते॥५४॥
इतीक्षुवर्गः॥
अथ तैलवर्गः।
तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च।
त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च॥५५॥
कृशानां बृहणायालं स्थूलानां कर्शनाय च।
बद्धविट्कं कृमिघ्नं च संस्कारात्सर्वरोगजित्॥५६॥
सत्तिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु।
वर्ध्मगुल्मानिलकफानुदरं विषमज्वरम्॥५७॥
रुक्शोफौ च कटीगुह्यकोष्ठपृष्ठाश्रयौ जयेत्।
तीक्ष्णोष्णं पिच्छिलं विस्रं, रक्तैरण्डोद्भवं त्वति॥५८॥
कटूष्णं सार्षपं तीक्ष्णं कफशुक्रानिलापहम्।
लघु पित्तास्रकृत् कोठकुष्ठार्शोव्रणजन्तुजित्॥५९॥
आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम्।
नात्युष्णं निम्बजं तिक्तं कृमिकुष्ठकफप्रणुत्॥६०॥
उमाकुसुम्भजं चोष्णं त्वग्दोषकफपित्तकृत्।
वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ॥६१॥
मांसानुगस्वरूपौ च, विद्यान्मेदोऽपि ताविव।
इति तैलवर्गः।
अथ मद्यवर्गः।
दीपनं रोचनं मद्यं तीक्ष्णोष्णं तुष्टिपुष्टिदम्॥६२॥
सस्वादुतिक्तकटुकमम्लपाकरसं सरम्।
सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु॥६३॥
नष्टनिद्राऽतिनिद्रेभ्यो हितं पित्तास्रदूषणम्।
कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम्॥६४॥
वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा।
गुरु तद्दोषजननं नवं, जीर्णमतोऽन्यथा॥६५॥
पेयं नोष्णोपचारेण न विरिक्तक्षुधातुरैः।
नात्यर्थतीक्ष्णमृद्वल्पसम्भारं कलुषं न च॥६६॥
गुल्मोदरार्शोग्रहणीशोषहृत् स्नेहनी गुरुः।
सुराऽनिलघ्नी मेदोऽसृक्स्तन्यमूत्रकफावहा॥६७॥
तद्गुणा वारुणी हृद्या लघुस्तीक्ष्णा निहन्ति च ।
शूलकासवमिश्वासविबन्धाध्मानपीनसान्॥६८॥
नातितीव्रमदा लघ्वी पथ्या बैभीतकी सुरा।
व्रणे पाण्ड्वामये कुष्ठे न चात्यर्थं विरुध्यते॥६९॥
विष्टम्भिनी यवसुरा गुर्वी रूक्षा त्रिदोषला।
यथाद्रव्यगुणोऽरिष्टः सर्वमद्यगुणाधिकः॥७०॥
ग्रहणीपाण्डुकुष्ठार्शःशोफशोषोदरज्वरान्।
हन्ति गुल्मकृमिप्लीह्नः कषायकटुवातलः॥७१॥
मार्द्वीकं लेखनं हृद्यं नात्युष्णं मधुरं सरम्।
अल्पपित्तानिलं पाण्डुमेहार्शःकृमिनाशनम्॥७२॥
अस्मादल्पान्तरगुणं खार्जूरं वातलं गुरु।
शार्करः सुरभिः स्वादुहृद्यो नातिमदो लघुः॥७३॥
सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः।
वातपित्तकरः सीधुः स्नेहश्लेष्मविकारहा॥७४॥
मेदःशोफोदरार्शोघ्नस्तत्र पक्वरसो वरः।
छेदी मध्वासवस्तीक्ष्णो मेहपीनसकासजित्॥७५॥
रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्।
भृशोष्णतीक्ष्णरूक्षाम्लं हृद्यं रुचिकरं सरम्॥७६॥
दीपनं शिशिरस्पर्शं पाण्डुदृक्कृमिनाशनम्।
गुडेक्षुमद्यमार्द्वीकशुक्तं लघु यथोत्तरम्॥७७
कन्दमूलफलाद्यं च तद्वद्विद्यात्तदासुतम्।
शाण्डाकी चासुतं चान्यत्कालाम्लं रोचनं लघु॥७८॥
धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत्स्पर्शशीतलम्।
श्रमक्लमहरं रुच्यं दीपनं बस्तिशूलनुत्॥७९॥
शस्तमास्थापने हृद्यं लघु वातकफापहम्।
एभिरेव गुणैर्युक्ते सौवीरकतुषोदके॥८०॥
कृमिहृद्रोगगुल्मार्शःपाण्डुरोगनिबर्हणे।
ते क्रमाद्वितुषैर्विद्यात्सतुषैश्च यवैः कृते॥८१॥
मूत्रं गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवम्।
पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु॥८२॥
कृमिशोफोदरानाहशूलपाण्डुकफानिलान्।
गुल्मारुचिविषश्वित्रकुष्ठार्शांसि जयेल्लघु॥८३॥
तोयक्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात्।
इति द्रवैकदेशोऽयं यथास्थूलमुदाहृतः॥८४॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रवद्रव्यविज्ञानीयो नाम पञ्चमोऽध्यायः॥५॥
Last updated on August 5th, 2021 at 11:38 am