चरकसंहिता
सूत्रस्थानम् ।
त्रिंशोऽध्याय: ।
अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्याम: ।
इति ह स्माह भगवानात्रेय: ॥२॥
अर्थे दश महामूला: समासक्ता महाफला: ।
महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधै: ॥३॥
षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम् ।
आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम् ॥४॥
प्रतिष्ठार्थं हि भावानामेषां हृदयमिष्यते ।
गोपानसीनामागारकर्णिकेवार्थचिन्तकै: ॥५॥
तस्योपघातान्मूर्च्छायं भेदान्मरणमृच्छति ।
यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम् ॥६॥
तत् परस्यौजस: स्थानं तत्र चैतन्यसंग्रह: ।
हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकै: ॥७॥
तेन मूलेन महता महामूला मता दश ।
ओजोवहा: शरीरेऽस्मिन् विधम्यन्ते समन्तत: ॥८॥
येनौजसा वर्तयन्ति प्रीणिता: सर्वदेहिन: ।
यदृते सर्वभूतानां जीवितं नावतिष्ठते ॥९॥
यत् सारमादौ गर्भस्य यत्तद्गर्भरसाद्रस: ।
संवर्तमानं हृदयं समाविशति यत् पुरा ॥१०॥
यस्य नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितम् ।
यच्छरीररसस्नेह: प्राणा यत्र प्रतिष्ठिता: ॥११॥
तत्फला बहुधा वा ता: फलन्तीव (ति) महाफला: ।
ध्मानाद्धमन्य: स्रवणात् स्रोतांसि सरणात्सिरा: ॥१२॥
तन्महत् ता महामूलास्तच्चौज: परिरक्षता ।
परिहार्या विशेषेण मनसो दु:खहेतव: ॥१३॥
हृद्यं यत् स्याद्यदौजस्यं स्रोतसां यत् प्रसादनम् ।
तत्तत् सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च ॥१४॥
अथ खल्वेकं प्राणवर्धनानामुत्कृष्टतममेकं बलवर्धनानामेकं बृंहणानामेकं नन्दनानामेकं हर्षणानामेकमयनानामिति । तत्राहिंसा प्राणिनां प्राणवर्धनानामुत्कृष्टतमं, वीर्यं बलवर्धनानां, विद्या बृंहणानाम्, इन्द्रियजयो नन्दनानां, तत्त्वावबोधो हर्षणानां, ब्रह्मचर्यमयनानामिति; एवमायुर्वेदविदो मन्यन्ते ॥१५॥
तत्रायुर्वेदविदस्तन्त्रस्थानाध्यायप्रश्नानां पृथक्त्वेन वाक्यशो वाक्यार्थशोऽर्थावयवशश्च प्रवक्तारो मन्तव्या: । तत्राह–कथं तन्त्रादीनि वाक्यशो वाक्यार्थशोऽर्थावयवशश्चोक्तानि भवन्तीति ॥१६॥
अत्रोच्यते–तन्त्रमार्षं कार्त्स्न्येन यथामनयमुच्यमानं वाक्यशो भवत्युक्तम् ॥१७॥
बुद्ध्या सम्यगनुप्रविश्यार्थतत्त्वं वाग्भिर्व्याससमासप्रतिज्ञाहेतूदाहरणोपनयनिगमनयुक्ताभिस्त्रिविधशिष्यबुद्धिगम्याभिरुच्यमानं वाक्यार्थशो भवत्युक्तम् ॥१८॥
तन्त्रनियतानामर्थदुर्गाणां पुनर्विभावनैरुक्तमर्थावयवशो भवत्युक्तम् ॥१९॥
तत्र चेत् प्रष्टार: स्यु:–चतुर्णामृक्सामयजुरथर्ववेदनां कं वेदमुपदिशन्त्यायुर्वेदविद:?, किमायु:?, कस्मादायुर्वेद:?, किमर्थमायुर्वेद:?, शाश्वतोऽशाश्वतो वा?, कति कानि चास्याङ्गानि?, कैश्चायमध्येतव्य:?, किमर्थं च ? इति ॥२०॥
तत्र भिषजा पृष्टेनैवं चतुर्णामृक्सामयजुरथर्ववेदानामात्मनोऽथर्ववेदे भक्तिरादेश्या, वेदो ह्याथर्वणो दानस्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चित्तोपवासमन्त्रादिपरिग्रहाच्चिकित्सां प्राह; चिकित्सा चायुषो हितायोपदिश्यते ॥२१॥
वेदं चोपदिश्यायुर्वाच्यं; तत्रायुश्चेतनानुवृत्तिर्जीवितमनुबन्धो धारि चेत्येकोऽर्थ: ॥२२॥
तदायुर्वेदयतीत्यायुर्वेद:; कथमिति चेत्? उच्यते-स्वलक्षणत: सुखासुखतो हिताहितत: प्रमाणाप्रमाणतश्च; यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्यतोऽप्यायुर्वेद: । तत्रायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि केवलेनोपदेक्ष्यन्ते तन्त्रेण ॥२३॥
तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव पूर्वाध्याये च । तत्र शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवत: समर्थानुगतबलवीर्ययश:पौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियार्थबलसमुदये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिण: सुखमायुरुच्यते; असुखमतो विपर्ययेण; हितैषिण: पुनर्भूतानां परस्वादुपरतस्य सत्यवादिन: शमपरस्य परीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमुपसेवमानस्य पूजार्हसंपूजकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविन: सुनियतरागरोषेर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमं चामुं चावेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते; अहितमतो विपर्ययेण ॥२४॥
प्रमाणमायुषस्त्वर्थेन्द्रियमनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यतेऽनिमित्तै:, अयमस्मात् क्षणान्मुहूर्ताद्दिवसात्त्रिपञ्चसप्त- दशद्वादशाहात् पक्षान्मासात् षण्मासात् संवत्सराद्वा स्वभावमापत्स्यत इति; तत्र स्वभाव: प्रवृत्तेरुपरमो मरणमनित्यता निरोध इत्येकोऽर्थ:; इत्यायुष: प्रमाणम्; अतो विपरीतमप्रमाणमरिष्टाधिकारे; देहप्रकृतिलक्षणमधिकृत्य चोपदिष्टमायुष: प्रमाणमायुर्वेदे ॥२५॥
प्रयोजनं चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनं च ॥२६॥
सोऽयमायुर्वेद: शाश्वतो निर्दिश्यते, अनादित्वात्, स्वभावसंसिद्धलक्षणत्वात्, भावस्वभावनित्यत्वाच्च। न हि नाभूत् कदाचिदायुष: सन्तानो बुद्धिसन्तानो वा, शाश्वतश्चायुषो वेदिता, अनादि च सुखदु:खं सद्रव्यहेतुलक्षणमपरापरयोगात् । एष चार्थसंग्रहो विभाव्यते आयुर्वेदलक्षणमिति । गुरुलघुशीतोष्णस्निग्धरूक्षादीनां द्रव्याणां सामान्यविशेषाभ्यां वृद्धिह्रासौ, यथोक्तं — गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनां, एवमेवेतरेषामिति, एष भावस्वभावो नित्य:, स्वलक्षणं च द्रव्याणां पृथिव्यादीनां; सन्ति तु द्रव्याणि गुणाश्च नित्यानित्या: । न ह्यायुर्वेदस्याभूत्वोत्पत्तिरुपलभ्यते, अन्यत्रावबोधोपदेशाभ्याम्; एतद्वै द्वयमधिकृत्योत्पत्तिमुपदिशन्त्येके । स्वाभाविकं चास्य लक्षणमकृतकं, यदुक्तमिहाद्येऽध्याये च; यथा-अग्नेरौष्ण्यम्, अपां द्रवत्वम् । भावस्वभावनित्यत्वमपि चास्य, यथोक्तं–गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनामिति ॥२७॥
तस्यायुर्वेदस्याङ्गान्यष्टौ; तद्यथा-कायचिकित्सा, शालाक्यं, शल्यापहर्तृकं, विषगरवैरोधिकप्रशमनं, भूतविद्या, कौमारभृत्यकं, रसायनं, वाजीकरणमिति ॥२८॥
स चाध्येतव्यो ब्राह्मणराजन्यवैश्यै: । तत्रानुग्रहार्थं प्राणिनां ब्राह्मणै:, आरक्षार्थं राजन्यै:, वृत्त्यर्थं वैश्यै:; सामान्यतो वा धर्मार्थकामपरिग्रहार्थं सर्वै: । तत्र यदध्यात्मविदां धर्मपथस्थानां धर्मप्रकाशकानां वा मातृपितृबन्धुगुरुजनस्य वा विकारप्रशमने प्रयत्नवान् भवति, यच्चायुर्वेदोक्तमध्यात्ममनुध्यायति वेदयत्यनुविधीयते वा, सोऽस्य परो धर्म:; या पुनरीश्वराणां वसुमतां वा सकाशात् सुखोपहारनिमित्ता भवत्यर्थावाप्तिरारक्षणं च, या च स्वपरिगृहीतानां प्राणिनामातुर्यादारक्षा, सोऽस्यार्थ:; यत् पुनरस्य विद्वद्ग्रहणयश: शरण्यत्वं च, या च संमानशुश्रूषा, यच्चेष्टानां विषयाणामारोग्यमाधत्ते सोऽस्य काम: । इति यथाप्रश्नमुक्तमशेषेण ॥२९॥
अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति–तन्त्रं, तन्त्रार्थान्, स्थानं, स्थानार्थान्, अध्यायम्, अध्यायार्थान्, प्रश्नं, प्रश्नार्थांश्चेति; पृष्टेन चैतद्वक्तव्यमशेषेण वाक्यशो वाक्यर्थशोऽर्थावयवशश्चेति ॥३०॥
तत्रायुर्वेद: शाखा विद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रमित्यनर्थान्तरम् ॥३१॥
तन्त्रार्थ: पुन: स्वलक्षणैरुपदिष्ट: । स चार्थ: प्रकरणैर्विभाव्यमानो भूय एव शरीरवृत्तिहेतुव्याधिकर्मकार्यकालकर्तृकरण- विधिविनिश्चयाद्दशप्रकरण:, तानि च प्रकरणानि केवलेनोपदेक्ष्यन्ते तन्त्रेण ॥३२॥
तन्त्रास्यास्याष्टौ स्थानानि; तद्यथा– श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि । तत्र त्रिंशदध्यायकं श्लोकस्थानम्, अष्टाष्टाध्यायकानि निदानविमानशारीरस्थानानि, द्वादशकमिन्द्रियाणां, त्रिंशकं चिकित्सितानां, द्वादशके कल्प सिद्धिस्थाने भवत: ॥३३॥
भवति चात्र–
द्वे त्रिंशके द्वादशकं त्रयं च
त्रीण्यष्टकान्येषु समाप्तिरुक्ता ।
श्लोकौषधारिष्टविकल्पसिद्धिनिदानमानाश्रयसंज्ञकेषु ॥३४॥
स्वे स्वे स्थाने यथास्वं च स्थानार्थ उपदेक्ष्यते
सविंशमध्यायशतं शृणु नामक्रमागतम् ॥३५॥
दीर्घञ्जीवोऽप्यपामार्गतण्डुलारग्वधादिकौ ।
षड्विरेकाश्रयश्चेति चतुष्को भेषजाश्रय: ॥३६॥
मात्रातस्याशितीयौ च नवेगान्धारणं तथा ।
इन्द्रियोपक्रमश्चेति चत्वार: स्वास्थ्यवृत्तिका: ॥३७॥
खुड्डाकश्च चतुष्पादो महांस्तिस्रैषणस्तथा ।
सह वातकलाख्येन विद्यान्नैर्देशिकान् बुध: ॥३८॥
स्नेहनस्वेदनाध्यायावुभौ यश्चोपकल्पन: ।
चिकित्साप्राभृतश्चैव सर्व एव प्रकल्पना: ॥४०॥
कियन्त:शिरसीयश्च त्रिशोफाष्टोदरादिकौ ।
रोगाध्यायो महांश्चैव रोगाध्यायचतुष्टयम् ॥४१॥
अष्टौनिन्दितसंख्यतस्तथा लङ्घनतर्पणे ।
विधिशोणितिकश्चैव व्याख्यातास्तत्र योजना: ॥४१॥
यज्ज:पुरुषसंख्यातो भद्रकाप्यान्नपानिकौ ।
विविधाशितपीतीयश्चत्वारोऽन्नविनिश्चया: ॥४२॥
दशप्राणायतनिकस्तथाऽर्थेदशमूलिक: ।
द्वावेतौ प्राणदेहार्थौ प्रोक्तो वैद्यगुणाश्रयौ ॥४३॥
औषधस्वस्थनिर्देशकल्पनारोगयोजना: ।
चतुष्का: षट् क्रमेणोक्ता: सप्तमश्चान्नपानिक: ॥४४॥
द्वौ चान्त्यौ संग्रहाध्यायाविति त्रिंशकमर्थवत् ।
श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिर: शुभम् ॥४५॥
चतुष्काणां महार्थानां स्थानेऽस्मिन् संग्रह: कृत: ।
श्लोकार्थ: संग्रहार्थश्च श्लोकस्थानमत: स्मृतम् ॥४६॥
ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयो: ।
शोषोन्मादनिदाने च स्यादपस्मारिणां च यत् ॥४७॥
इत्यध्यायाष्टकमिदं निदानस्थानमुच्यते ।
रसेषु त्रिविधे कुक्षौ ध्वंसे जनपदस्य च ॥४८॥
त्रिविधे रोगविज्ञाने स्रोत:स्वपि च वर्तने ।
रोगानीके व्याधिरूपे रोगाणां च भिषग्जिते ॥४९॥
अष्टौ विमानान्युक्तानि मानार्थानि महर्षिणा ।
कतिधापुरुषीयं च गोत्रेणातुल्यमेव च ॥५०॥
खुड्डिका महती चैव गर्भावक्रान्तिरुच्यते ।
पुरुषस्य शरीरस्य विचयौ द्वौ विनिश्चितौ ॥५१॥
शरीरसंख्या सूत्रं च जातेरष्टममुच्यते ।
इत्युद्दिष्टानि मुनिना शारीराण्यत्रिसूनुना ॥५२॥
वर्णस्वरीय: पुष्पाख्यस्तृतीय: परिमर्शन: ।
चतुर्थ इन्द्रियानीक: पञ्चम: पूर्वरूपिक: ॥५३॥
कतमानिशरीरीय: पन्नरूपोऽप्यवाक्शिरा: ।
यस्यश्यावनिमित्तश्च सद्योमरण एव च ॥५४॥
अणुज्योतिरिति ख्यातस्तथा गोमयचूर्णवान् ।
द्वादशाध्यायकं स्थानमिन्द्रियाणमिति स्मृतम् ॥५५॥
अभयामलकीयं च प्राणकामीयमेव च ।
करप्रचितकं वेदसमुत्थानं रसायनम् ॥५६॥
संयोगशरमूलीयमासिक्तक्षीरकं तथा ।
माषपर्णभृतीयं च पुमाञ्जातबलादिकम् ॥५७॥
चतुष्कद्वयमप्येतदध्यायद्वयमुच्यते ।
रसायनमिति ज्ञेयं वाजीकरणमेव च ॥५८॥
ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयो: ।
शोषोन्मादेऽप्यपस्मारे क्षतशोथोदरार्शसाम् ॥५९॥
ग्रहणीपाण्डुरोगाणां श्वासकासातिसारिणाम् ।
छर्दिवीसर्पतृष्णानां विषमद्यविकारयो: ॥६०॥
द्विव्रणीयं त्रिमर्मीयमूरुस्तम्भिकमेव च ।
वातरोगे वातरक्ते योनिव्यापत्सु चैव यत् ॥६१॥
त्रिंशच्चिकित्सितान्युक्तान्यत: कल्पान् प्रचक्ष्महे ।
फलजीमूतकेक्ष्वाकुकल्पो धामार्गवस्य च ॥६२॥
पञ्चमो वत्सकस्योक्त: षष्ठश्च कृतवेधने ।
श्यामात्रिवृतयो: कल्पस्तथैव चतुरङ्गुले ॥६३॥
तिल्वकस्य सुधायाश्च सप्तलाशङ्खिनीषु च ।
दन्तीद्रवन्त्यो: कल्पश्च द्वादशोऽयं समाप्यते ॥६४॥
कल्पना पञ्चकर्माख्या बस्तिसूत्री तथैव च ।
स्नेहव्यापदिकी सिद्धिर्नेत्रव्यापदिकी तथा ॥६५॥
सिद्धि: शोधनयोश्चैव बस्तिसिद्धिस्तथैव च ।
प्रासृती मर्मसंख्याता सिद्धिर्बस्त्याश्रया च या ॥६६॥
फलमात्रा तथा सिद्धि: सिद्धिश्चोत्तरसंज्ञिता ।
सिद्धयो द्वादशैवैतास्तन्त्रं चासु समाप्यते ॥६७॥
स्वे स्वे स्थाने तथाऽध्याये चाध्यायार्थ: प्रवक्ष्यते ।
तं ब्रूयात् सर्वत: सर्वं यथास्वं ह्यर्थसंग्रहात् ॥६८॥
पृच्छा तन्त्राद्यथाम्नायं विधिना प्रश्न उच्यते ।
प्रश्नार्था युक्तिमांस्तस्य तन्त्रेणैवार्थनिश्चय: ॥६९॥
निरुक्तं तन्त्रणात्तन्त्रं, स्थानमर्थप्रतिष्ठया ।
अधिकृत्यार्थमध्यायनामसंज्ञा प्रतिष्ठिता ॥७०॥
इति सर्वं यथाप्रश्नष्टकं संप्रकाशितम् ।
कार्त्स्न्येन चोक्तस्तन्त्रस्य संग्रह: सुविनिश्चित: ॥७१॥
सन्ति पाल्लविकोत्पाता: संक्षोभं जनयन्ति ये ।
वर्तकानामिवोत्पाता: सहसैवाविभाविता: ॥७२॥
तस्मात्तान् पूर्वसंजल्पे सर्वत्राष्टकमादिशेत् ।
परावरपरीक्षार्थं तत्र शास्त्रविदां बलम् ॥७३॥
शब्दमात्रेण तन्त्रस्य केवलस्यैकदेशिका: ।
भ्रमन्त्यल्पबलास्तन्त्रे ज्याशब्देनेव वर्तका: ॥७४॥
पशु: पशूनां दौर्बल्यात् कश्चिन्मध्ये वृकायते ।
स सत्यं वृकमासाद्य प्रकृतिं भजते पशु: ॥७५॥
तद्वदज्ञोऽज्ञमध्यस्थ: कश्चिन्मौखर्यसाधन: ।
स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते ॥७६॥
बभ्रुर्गूढ इवोर्णाभिरबुद्धिरबहुश्रुत: ।
किं वै वक्ष्यति संजल्पे कुण्डभेदी जडो यथा ॥७७॥
सद्वृत्तैर्न विगृह्णीयाद्भिषगल्पश्रुतैरपि ।
हन्यात् प्रश्नाष्टकेनादावितरांस्त्वाप्तमानिनः॥७८॥
दम्भिनो मुखरा ह्यज्ञा: प्रभूताबद्धभाषिण: ।
प्राय:, प्रायेण सुमुखा: सन्तो युक्ताल्पभाषिण: ॥७९॥
तत्त्वज्ञानप्रकाशार्थमहङ्कारमनाश्रित: ।
स्वल्पाधाराज्ञमुखरान्मर्षयेन्न विवादिन: ॥८०॥
परो भूतेष्वनुक्रोशस्तत्त्वज्ञान(ने)परादया ।
येषां तेषामसद्वादनिग्रहे निरता मति: ॥८१॥
असत्पक्षाक्षणित्वार्तिदम्भपारुष्यसाधना: ।
भवन्त्यनाप्ता: स्वे तन्त्रे प्राय: परविकत्थका: ॥८२॥
तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान् ।
प्रशमज्ञानविज्ञानपूर्णा: सेव्या भिषक्तमा: ॥८३॥
समग्रं दु:खमायत्तमविज्ञाने द्वयाश्रयम् ।
सुखं समग्रं विज्ञाने विमले च प्रतिष्ठितम् ॥८४॥
इदमेवमुदारार्थमज्ञानां न प्रकाशकम् ।
शास्त्रं दृष्टिप्रणष्टानां यथैवादित्यमण्डलम् ॥८५॥
तत्र श्लोका:–
अर्थे दशमहामूला: संज्ञा चासां यथा कृता ।
अयनान्ता: षडग्र्याश्चरूपं वेदविदां च यत् ॥८६॥
सप्तकश्चाष्टकश्चैव परिप्रश्नाः सनिर्णया: ।
यथा वाच्यं यदर्थं च षड्विधाश्चैकदेशिका: ॥८७॥
अर्थेदशमहामूले सर्वमेतत् प्रकाशितम् ।
संग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवल: ॥८८॥
यथा सुमनसां सूत्रं संग्रहार्थं विधीयते ।
संग्रहार्थं तथाऽर्थानामृषिणा संग्रह: कृत: ॥८९॥
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते ।
इयताऽवधिना सर्वं सूत्रस्थानं समाप्यते ॥९०॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने अर्थेदशमहामूलीयो नाम
त्रिंशोऽध्याय: ॥३०॥
Last updated on June 3rd, 2021 at 09:10 am